(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.7. अध्यायः 007
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनार्जुनयोः कृष्णदर्शनाय यदृच्छया युगपत् द्वारकागमनम् ॥ 1 ॥
अर्जुनेन सारथ्येन वरयित्वा तेन सह युधिष्ठिरसमीपगमनम् ॥ 2 ॥
दुर्योधनेन नारायणाह्वयकृष्णकुमारानादाय कृतवर्मणासह स्वपुरगमनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-7-0x(3337)(31823)
पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम्।
दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः ॥ 5-7-1(31824)
प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः ।
स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः ॥ 5-7-2(31825)
गते द्वारवतीं कृष्ण बलदेवे च माधवे।
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा ॥ 5-7-3(31826)
सर्वमागमयामास पाण्डवानां विचेष्टितम् ।
धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः ॥ 5-7-4(31827)
स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः ।
बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥ 5-7-5(31828)
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः ।
आनन्रतनगरीं रम्यां जगामाशु धनञ्जयः ॥ 5-7-6(31829)
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ ।
सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः ॥ 5-7-7(31830)
दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत् ।
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥ 5-7-8(31831)
ततः किरीटी तस्यानु प्रविवेश महामनाः ।
पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥ 5-7-9(31832)
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनाम्।
सिंहासनगतं पश्चात्परिवृत्य च दृष्टवान् ॥ 5-7-10(31833)
स तयोः स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ ।
तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥ 5-7-11(31834)
ततो दुर्योधनः कृष्णामुवाच प्रहसन्निव।
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥ 5-7-12(31835)
समं हि भवतः सख्यं मम चैवार्जुनेऽपि च।
तथा संबन्धकं तुल्यमस्माकं त्वयि माधव ॥ 5-7-13(31836)
अहं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ॥
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन । 5-7-14(31837)
सततं संमतश्चैव सद्वृत्तमनुपालय ॥ 5-7-15(31838)
कृष्ण उवाच। 5-7-16x(3338)
भवानभिगतः पूर्वमत्र मे नास्ति संशयः।
दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः ॥ 5-7-16(31839)
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् ।
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥ 5-7-17(31840)
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः।
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ॥ 5-7-18(31841)
मत्संहननतुल्यानां गोपानामर्बुदं महत्।
नारायणा इति ख्याताः सर्वे संग्रामयोधिनः ॥ 5-7-19(31842)
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः ।
अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः ॥ 5-7-20(31843)
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम्।
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥ 5-7-21(31844)
` एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः ।
तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः ' 5-7-22(31845)
वैशम्पायन उवाच। 5-7-23x(3339)
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः।
अयुध्यमानं संग्रामे वरयामास केशवम्॥ 5-7-23(31846)
नारायणममिघ्नं कामाज्जातमजं नृषु ।
सर्वक्षत्रस्य पुरतो देवदानवयोरपि ॥ 5-7-24(31847)
दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा ।
सहस्राणां महस्रं तु योधानां प्राप्य भारत ॥ 5-7-25(31848)
कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् ।
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ॥ 5-7-26(31849)
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ।
सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्।
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥ 5-7-27(31850)
बलदेव उवाच। 5-7-28x(3340)
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति।
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥ 5-7-28(31851)
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन।
मया संबन्धकं तुल्यमिति राजन्पुनःपुनः ॥ 5-7-29(31852)
न च तद्वाक्यमुक्तं वै केशवं प्रत्यपद्यत।
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्॥ 5-7-30(31853)
नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै ।
इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह ॥ 5-7-31(31854)
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते ।
गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ ॥ 5-7-32(31855)
वैशम्पायन उवाच। 5-7-33x(3341)
इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम्।
कृष्णं चापि महाबाहुमामन्त्र्य भरतर्षभ ॥ 5-7-33(31856)
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः ।
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥ 5-7-34(31857)
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः ।
वृतः परिययौ हृष्टः सुहृदः संप्रहर्षयन् ॥ 5-7-35(31858)
ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः ।
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ॥ 5-7-36(31859)
अयुध्यमानः कां बृद्धिमास्थायाहं वृतस्त्वया । 5-7-37(31860)
अर्जुन उवाच।
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः ।
निहन्तुमहमष्येकः समर्थः पुरुषर्षभः ॥ 5-7-37x(3342)
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति।
यशसां चाहमप्यर्थी तस्मादसि मया वृतः ॥ 5-7-38(31861)
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा।
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥ 5-7-39(31862)
वासुदेव उवाच। 5-7-40x(3343)
उपपन्नमिदं पार्थ यत्स्पर्धसि मया सह।
सारथ्यं ते करिष्यामि कामः संपद्यतां तव ॥ 5-7-40(31863)
वैशम्पायन उवाच। 5-7-41x(3344)
एवं प्रमुदितः पार्थः कुष्णेन सहितस्तदा।
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥ ॥ 5-7-41(31864)

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि सप्तमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-7-10 प्रवारणं ईप्सितसादानम्। पूर्वमर्हः त्वत्तः कनिष्ठत्वादित्यर्थः ॥ 10 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.